|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.255. अध्यायः 255
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति एकादशरुद्रद्वादशादित्यादीनां वसिष्ठादिमहर्षीणां राजर्ष्यादीनां च पृथक्पृथङ्गामनिर्देशपूर्वकं तत्तन्नामकीर्तनादेः सावित्रीजपादेश्च महाफलहेतुत्वाभिधानम्॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Text
युधिष्ठिर उवाच*।
पितामह महाप्राज्ञ सर्वशास्त्रविशारद।
किं जप्यं जपतो नित्यं भवेद्धर्मफलं महत्॥ 13-255-1(91650)
प्रस्थाने वा प्रवेशे वा प्रवृत्ते वाऽपि कर्मणि।
दैवे वा श्राद्धकाले वा किं जप्यं कर्मसाधनम्॥ 13-255-2(91651)
शान्तिकं पौष्टिकं रक्षा शत्रुघ्नं भयनाशनम्।
जप्यं यद्ब्रह्म समितं तद्भवान्वक्तुमर्हति॥ 13-255-3(91652)
भीष्म उवाच। 13-255-4x(7689)
व्यासप्रोक्तमिमं मन्त्रं शृणुष्वैकमना नृप।
सावित्र्या विहितं दिव्यं सद्यः पावविमोचनम्॥ 13-255-4(91653)
शृणु मन्त्रविधिं कृत्स्नं प्रोच्यमानं मयाऽनघ।
यं श्रुत्वा पाण्डवश्रेष्ठ सर्वपापैः प्रमुच्यते॥ 13-255-5(91654)
रात्रावहनि धर्मज्ञ जपन्पापैर्न लिप्यते।
तत्तेऽहं सम्प्रवक्ष्यामि शृणुष्वैकमना नृप॥ 13-255-6(91655)
आयुष्मान्भवते चैव यं श्रुत्वा पार्थिवात्मज।
पुरुषस्तु सुसिद्धार्थः प्रेत्य चेह च मोदते॥ 13-255-7(91656)
सेवितं सततं राजन्पुरा राजर्षिसत्तमैः।
क्षत्रधर्मपैरर्नित्यं सत्यव्रतपरायणैः॥ 13-255-8(91657)
इदमाह्निकमव्यग्रं कुर्वद्भिर्नियतैः सदा।
नृपैर्भरतशार्दूल प्राप्यते श्रीरनुत्तमा॥ 13-255-9(91658)
नमो वसिष्ठाय महाव्रताय
पराशरं वेदनिधइं नमस्ते।
नमोस्त्वनन्ताय महोरगाय
नमोस्तु सिद्धेभ्य इहाक्षयेभ्यः॥ 13-255-10(91659)
नमोस्त्वृषिभ्यः परमं परेषां
देवेषु देवं वरदं वराणाम्।
सहस्रशीर्षाय नमः शिवाय
सहस्रनामाय जनार्दनाय॥ 13-255-11(91660)
अजैकपादहिर्बुध्न्यः पिनाकी चापराजितः।
ऋतश्च पितृरूपश्च त्र्यम्बकश्च महेश्वरः॥ 13-255-12(91661)
वृषाकपिश्च शंभुश्च हवनोऽथेश्वरस्तथा।
एकादशैते प्रथिता रुद्रास्त्रिभुवनेश्वराः॥ 13-255-13(91662)
शतमेतत्समाम्नातं शतरुद्रे महात्मनाम्॥ 13-255-14(91663)
अंशो भगश्च मित्रश्च वरुणश्च जलेश्वरः।
तथा धाताऽर्यमा चैव जयन्तो भास्करस्तथा॥ 13-255-15(91664)
त्वष्टा पूषा तथैवेन्द्रो द्वादशो विष्णुरुच्यते।
इत्येते द्वादशादित्याः काश्यपेया इति श्रुतिः॥ 13-255-16(91665)
धरो ध्रुवश्च सोमश्च सावित्रोऽथानिलोऽनलः।
प्रत्यूषश्च प्रभासश्च वसवोष्टौ प्रकीर्तिताः॥ 13-255-17(91666)
नासत्यश्चापि दस्रश्च स्मृतौ द्वावश्विनावपि।
मार्तण्डस्यात्मजावेतौ संज्ञानासाविनिर्गतौ॥ 13-255-18(91667)
अतः परं प्रवक्ष्यामि लोकानां कर्मसाक्षिणः।
अपि यज्ञस्य वेत्तारो दत्तस्य सुकृतस्य च॥ 13-255-19(91668)
अदृश्याः सर्वभूतेषु पश्यन्ति त्रिदशेश्वराः। 13-255-20(91669)
शुभाशुभानि कर्माणि मृत्युः कालश्च सर्वशः॥ 13-255-20(91670)
विश्वेदेवाः पितृगणा मूर्तिमन्तस्तपोधनाः।
मुनयश्चैव सिद्धाश्च तपोमोक्षपरायणाः।
शुचिस्मिताः कीर्तयतां प्रयच्छन्ति शुभं नृणाम्॥ 13-255-21(91671)
प्रजापतिकृतानेतान्लोकान्दिव्येन तेजसा।
वसन्ति सर्वलोकेषु प्रयताः सर्वकर्मसु॥ 13-255-22(91672)
प्राणानामीश्वरानेतान्कीर्तयन्प्रयतो नरः।
धर्मार्थकामैर्विपुलैर्युज्यते सह नित्यशः॥ 13-255-23(91673)
लोकांश्च लभते पुण्यान्विश्वेश्वरकृताञ्शुभान्।
एते देवास्त्रयस्त्रिंशत्सर्वभूतगणेश्वराः॥ 13-255-24(91674)
नन्दीश्वरो महाकायो ग्रामणीर्वृषभध्वजः।
ईश्वराः सर्वलोकानां गणेश्वरविनायकाः॥ 13-255-25(91675)
सौम्या रौद्रा गणाश्चैव योगभूतगणास्तथा।
ज्योतींषि सरितो व्योम सुपर्णः पतगेश्वरः॥ 13-255-26(91676)
पृथिव्यां तपसा सिद्धाः स्थावराश्च चरास्च ह।
हिमवान्गिरयः सर्वे चत्वारश्च महार्णवाः॥ 13-255-27(91677)
भवस्यानुचराश्चैव हरतुल्यपराक्रमाः।
विष्णुर्देवोथ जिष्णुश्च स्कन्दश्चाम्बिकया सह॥ 13-255-28(91678)
कीर्तयन्प्रयतः सर्वान्सर्वपापैः प्रमुच्यते।
अत ऊर्ध्वं प्रवक्ष्यामि मानवानृषिसत्तमान्॥ 13-255-29(91679)
यवक्रीतश्च रैभ्यश्च अर्वावसुपरावसू।
औशिजश्चैव कक्षीवान्बलश्चाङ्गिरसः सुतः॥ 13-255-30(91680)
ऋषिर्मेधातिथेः पुत्रः कण्वो बर्हिषदस्तथा।
ब्रह्मतेजोमयाः सर्वे कीर्तिता लोकभावनाः॥ 13-255-31(91681)
लभन्ते हि शुभं सर्वे रुद्रानलवसुप्रभाः।
भुवि कृत्वा शुभं कर्म मोदन्ते दिवि दैवतैः॥ 13-255-32(91682)
महेन्द्रगुरवः सप्त प्राचीं वै दिशमाश्रिताः।
प्रयतः कीर्तयेदेताञ्शक्रलोके महीयते॥ 13-255-33(91683)
उन्मुचुः प्रमुचुश्चैव स्वस्त्यात्रेयश्च वीर्यवान्।
दृढव्यश्चोर्ध्वबाहुश्च तृणसोमाङ्गिरास्तथा॥ 13-255-34(91684)
मित्रावरुणयोः पुत्रस्तथाऽगस्त्यः प्रतापवान्।
धर्मराजर्त्विजः सप्त दक्षिणां दिशमाश्रिताः॥ 13-255-35(91685)
दृढेयुश्च ऋतेयुश्च परिव्याधश्च कीर्तिमान्।
एकतश्च द्वितश्चैव त्रितश्चादित्यसन्निभाः॥ 13-255-36(91686)
अत्रेः पुत्रश्च धर्मात्मा ऋषिः सारस्वतस्तथा।
वरुणस्यर्त्विजः सप्त पश्चिमां दिशमाश्रिताः॥ 13-255-37(91687)
अत्रिर्वसिष्ठो भगवान्कश्यपश्च महानृषिः।
गौतमश्च भरद्वाजो विश्वामित्रोथ कौशिकः॥ 13-255-38(91688)
ऋचीकतनयश्चोग्रो जमदग्निः प्रतापवान्।
धनेश्वरस्य गुरवः सप्तैते उत्तराश्रिताः॥ 13-255-39(91689)
अपरे मुनयः सप्त दिक्षु सर्वास्वधिष्ठिताः।
कीर्तिस्वस्तिकरा नॄणां कीर्तिता लोकभावनाः॥ 13-255-40(91690)
धर्मः कामश्च कालश्च वसुर्वासुकिरेव च।
अनन्तः कपिलश्चैव सप्तैते धरणीधराः॥ 13-255-41(91691)
रामो व्यासस्तथा द्रौणिरश्वत्थामा च लोमशः।
इत्येते मुनयो दिव्या एकैकः सप्तसप्तधा॥ 13-255-42(91692)
शान्तिस्वस्तिकरा लोके दिशांपालाः प्रतीर्तिताः।
यस्यांयस्यां दिशि ह्येते तन्मुखः शरणं व्रजेत्॥ 13-255-43(91693)
स्रष्टारः सर्वभूतानां कीर्तिता लोकपावनाः।
संवर्तो मेरुसावर्णो मार्कण्डेयश्च धार्मिकः॥ 13-255-44(91694)
साङ्ख्ययोगौ नारदश्च दुर्वासाश्च महानृषिः।
अत्यन्ततपसो दान्तास्त्रिषु लोकेषु विश्रुताः॥ 13-255-45(91695)
अपरे रुद्रसङ्काशाः कीर्तिता ब्रह्मलौकिकाः।
अपुत्रो लभते पुत्रं दरिद्रो लभते धनम्॥ 13-255-46(91696)
तथा धर्मार्थकामेषु सिद्धिं च लभते नरः।
पृथुं वैन्यं नृपवरं पृथ्वी यस्याभवत्सुता॥ 13-255-47(91697)
प्रजापतिं सार्वभौमं कीर्तयेद्वसुधाधिपम्।
आदित्यवंशप्रभवं महेन्द्रसमविक्रमम्॥ 13-255-48(91698)
पुरूरवसमैलं च त्रिषु लोकेषु विश्रुतम्।
बुधस्य दयितं पुत्रं कीर्तयेद्वसुधाधिपम्॥ 13-255-49(91699)
त्रिलोकविश्रुतं वीरं भरतं च प्रकीर्तयेत्।
गवामयेन यज्ञेन येनेष्टं वै कृते युगे॥ 13-255-50(91700)
रन्तिदेवं महादेवं कीर्तयेत्परमद्युतिम्।
विश्वजित्तपसोपेतं लक्षण्यं लोकपूजितम्॥ 13-255-51(91701)
तथा श्वेतं च राजर्षिं कीर्तयेत्परमुद्यतिम्।
सगरस्यात्मजा येन प्लावितास्तारितास्तथा॥ 13-255-52(91702)
हुताशनसमानेतान्महारूपान्महौजसः।
उग्रकायान्महासत्वान्कीर्तयेत्कीर्तिवर्धनान्॥ 13-255-53(91703)
देवानृषिगणांश्चैव नृपांश्च जगतीश्वरान्।
साङ्ख्यं योगं च परमं हव्यं कव्यं तथैव च॥ 13-255-54(91704)
कीर्तितं परमं ब्रह्म सर्वश्रुतिपरायणम्।
मङ्गल्यं सर्वभूतानां पवित्रं बहु कीर्तितम्॥ 13-255-55(91705)
व्याधिप्रशमनं श्रेष्ठं पौष्टिकं सर्वकर्मणाम्।
प्रयतः कीर्तयेच्चैतान्कल्यं सायं च भारत॥ 13-255-56(91706)
एते वै यान्ति वर्षन्ति भान्ति वान्ति सृजन्ति च।
एते विनायकाः श्रेष्ठा दक्षाः क्षान्ता जितेन्द्रियाः॥ 13-255-57(91707)
नराणामशुभं सर्वे व्यपोहन्ति प्रकीर्तिताः।
साक्षिभूता महात्मानः पापस्य सुकृतस्य च॥ 13-255-58(91708)
एतान्वै कल्यमुत्थाय कीर्तयञ्शुभमश्नुते।
नाग्निचोरभयं तस्य न मार्गप्रतिरोधनम्॥ 13-255-59(91709)
एतान्कीर्तयतां नित्यं दुःस्वप्नो नश्यते नृणाम्।
मुच्यते सर्वपापेभ्यः स्वस्तिमांश्च गृहान्व्रजेत्॥ 13-255-60(91710)
दीक्षाकालेषु सर्वेषु यः पठेन्नियतो द्विजः।
न्यायवानात्मनिरतः क्षान्तो दान्तोऽनसूयकः॥ 13-255-61(91711)
रोगार्तो व्याधियुक्तो वा पठन्पापात्प्रमुच्यते।
वास्तुमध्ये तु पठतः कुले स्वस्त्ययनं भवेत्॥ 13-255-62(91712)
क्षेत्रमध्ये तु पठतः सर्वं सस्यं प्ररोहति।
गच्छतः क्षेममध्वानं ग्रामान्तरगतः पठन्॥ 13-255-63(91713)
आत्मनश्च सुतानां च दाराणां च धनस्य च।
बीजानामोषधीनां च रक्षामेतां प्रयोजयेत्॥ 13-255-64(91714)
एतान्सङ्ग्रामकाले तु पठतः क्षत्रियस्य तु।
व्रजन्ति रिपवो नाशं क्षेमं च परिवर्तते॥ 13-255-65(91715)
एतान्दैवे च पित्र्ये च पठतः पुरुषस्य हि।
भुञ्जते पितरः कव्यं हव्यं च त्रिदिवौकसः॥ 13-255-66(91716)
न व्याधिश्वापदभयं न द्विपान्न हि तस्करात्।
कश्मलं लघुतां याति पाप्मना च प्रमुच्यते॥ 13-255-67(91717)
यानपात्रे च याने च प्रवासे राजवेश्मनि।
परां सिद्धिमवाप्नोति सावित्रीं ह्युत्तमां पठन्॥ 13-255-68(91718)
न च राजभयं तेषां न पिशाचान्न राक्षसात्।
नाग्न्यम्बुपवनव्यालाद्भयं तस्योपजायते॥ 13-255-69(91719)
चतुर्णामपि वर्णानामाश्रमस्य विशेषतः।
करोति सततं शान्तिं सावित्रीमुत्तमां पठन्॥ 13-255-70(91720)
नाग्निर्दहति काष्ठानि सावित्री यत्र पठ्यते।
न तत्र बालो म्रियते न च तिष्ठन्ति पन्नगाः॥ 13-255-71(91721)
न तेषां विद्यते दुःखं गच्छन्ति परमां गतिम्।
ये शृण्वन्ति महद्ब्रह्म सावित्रीगुणकीर्तनम्॥ 13-255-72(91722)
गवां मध्ये तु पठतो गावोऽस्य बहुवत्सलाः।
प्रस्थाने वा प्रवासे वा सर्वावस्थां गतः पठेत्॥ 13-255-73(91723)
जपतां जुह्वतां चैव नित्यं च प्रयतात्मनाम्।
ऋषीणां परमं जप्यं गुह्यमेतन्नराधिप॥ 13-255-74(91724)
याथातथ्येन सिद्धस्य इतिहासं पुरातनम्।
पराशरमतं दिव्यं शक्राय कथितं पुरा॥ 13-255-75(91725)
तदेतत्ते समाख्यातं तथ्यं ब्रह्म सनातनम्।
हृदयं सर्वभूतानां श्रुतिरेषा सनातनी॥ 13-255-76(91726)
सोमादित्यान्वयाः सर्वे राघवाः कुरवस्तथा।
पठन्ति शुचयो नित्यं सावित्रीं प्राणिनां गतिं॥ 13-255-77(91727)
अभ्यासे नित्यं देवानां सप्तर्षीणां ध्रुवस्य च।
मोक्षणं सर्वकृच्छ्राणां मोचयत्यशुभात्सदा॥ 13-255-78(91728)
वृद्धैः काश्यपगौतमप्रभृतिभिर्भृग्वङ्गिरोत्र्यादिभिः
शुक्रागस्त्यबृहस्पतिप्रभृतिभिर्ब्रह्मह्मर्षिभिः सेवितम्।
भारद्वाजमतं ऋचीकतनयैः प्राप्तं वसिष्ठात्पुनः
सावित्रीमधिगम्य शक्रवसुभिः कृत्स्ना जिता दानवाः॥ 13-255-79(91729)
यो गोशतं कनकशृङ्गमयं ददाति
विप्राय वेदविदुषे च बहुश्रुताय।
दिव्यां च भारतकथां कथयेच्च नित्यं
तुल्यं फलं भवति तस्य च तस्य चैव॥ 13-255-80(91730)
धर्मो विवर्धति भृगोः परिकीर्तनेन
वीर्यं विवर्धति पसिष्ठनमोनतेन।
सङ्ग्रामजिद्भवति चैव रघुं नमस्य-
न्स्यादश्विनौ च परिकीर्तयतो न रोगः॥ 13-255-81(91731)
एषा ते कथिता राजन्सावित्री ब्रह्मशाश्वती।
विवक्षुरसि यच्चान्यत्तत्ते वक्ष्यामि भारत॥ ॥ 13-255-82(91732)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि पञ्चपञ्चाशदधिकद्विशततमोऽध्यायः॥ 255 ॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-255-1x अयमध्यायः औत्तराहपाठ एव वर्तते। 7-255-4 विहितं इष्टसिद्ध्यर्थं जप्तम्॥ 7-255-9 आह्निकं अहरहः कर्तव्यम्॥ 7-255-11 वरदं नमस्ये इति शेषः॥ 7-255-18 संज्ञाया अश्वारूपाया नास्तातः नासिकायाः सकाशाद्विनिर्गतौ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|